Vishnu Shatnam Stotram

विष्णु-शतनाम-स्तोत्रम् नारद उवाच ॐ वासुदेवं हृषीकेशं वामनं जलशायिनम्। जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ।। वाराहं पुण्डरीकाक्षं नृसिहं नरकान्तकम्। अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम्।। नारायणं गदाध्यक्ष गोविन्दं कीर्तिभाजनम्। गोवर्द्धनोद्धरं देवं भूधरं भुवनेश्वरम् ।। वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम्। चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ॥ वैकुण्ठं दुष्टदमनं भूगर्भ पीतवाससम्। त्रिविक्रमं त्रिकालज्ञं त्रिमूर्ति नन्दिकेश्वरम् । रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम्। श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम्। दामोदरं दमोपेतं केशवं केशिसूदनम्। वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम्।। हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम्। सकलं निष्कलं शुद्ध निर्गुणं गुणशाश्वतम्॥ हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम्। मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्। सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥ ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम्। योगीशं योगनिष्णातं योगिनंयोगरूपिणम्।। ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम्। इति नामशतं दिव्यं वैष्णवं खलु पापहम्।। व्यासेन कथितं पूर्व सर्वपापप्रणाशनम्। यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः।। सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात्। चान्द्रायणसहस्त्राणि कन्यादानशतानि च। गवां लक्षसहस्त्राणि मुक्तिभागी भवेन्नरः । अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः।। इति विष्णुपुराणे विष्णुशतनामस्तोत्रं सम्पूर्णम्।

Sridashavatar Stotram

श्रीदशावतारस्तोत्रम् प्रलयपयोधिजले धृतवानसि वेदम्। विहितवहित्रचरित्रमखेदम्। केशव धृतमीनशरीर जय जगदीश हरे ।॥1॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणिधरणकिणचक्रगरिष्ठे। केशव धृतकच्छपरूप जय जगदीश हरे।॥2॥ वसति दशनशिखरे धरणी तव लग्ना। शशिनि कलङ्ककलेव निमग्ना। केशव धृतसूकररूप जय जगदीश हरे ॥३॥ तव करकमलवरे नखमद्भुतश्रङ्गम्। दलितहिरण्यकशिपुतनुभृङ्गम्। केशव धृतनरहरिरूप जय जगदीश हरे ॥4॥ छलयसि विक्रमणे बलिमद्भुतवामन। पदनखनीरजनितजनपावन। केशव धृतवामनरूप जय जगदीश हरे । ॥5॥ क्षत्रिययरुधिरमये जगदपगतपापम्। स्नपयसि पयसि शमितभवतापम्। केशव धृतभृगुपतिरूप जय जगदीश हरे ॥61 वितरसि दिक्षु रणे दिक्पतिकमनीयम्। दशमुखमौलिबलिं रमणीयम्। केशव धृतरघुपतिवेष जय जगदीश हरे ।।॥7॥ वहसि वपुषि विशदे वसनं जलदाभम्। हलहतिभीतिमिलितयमुनाभम्। केशव धृतहलधररूप जय जगदीश हरे ॥৪॥ निन्दसि यज्ञविधेरहह श्रुतिजातम्। सदयहृदयदर्शितपशुघातम्। केशव धृतबुद्धशरीर जय जगदीश हरे । ॥9॥ म्लेच्छनिवहनिधने कलयसि करवालम्। धूमकेतुमिव किमपि करालम्। केशव धृतकल्किशरीर जय जगदीश हरे ॥10॥ श्रीजयदेवकवेरिदमुदितमुदारम्। शृणु सुखदं शुभदं भवसारम्। केशव धृतदशविधरूप जय जगदीश हरे | ॥11॥ इति श्रीजयदेवविरचितं श्रीदशावतारस्तोत्रं सम्पूर्णम्

Shree Vishnusahasranaam Stotram

अथ श्रीविष्णुसहस्त्रनामस्तोत्रम् शान्ति और समृद्धि के लिये विनियोगः अस्य श्रीविष्णोर्निव्यसहस्वनाम स्तोत्र-महामन्वस्य भगवान् वेदव्यास ऋषिः, अनुष्टुप् श्रीकृष्णः परमात्या, श्रीमन्नारायणो देवता, अमृतांशू‌द्भवो भानुरिति बीजम्, देवकीनन्दनः स्वष्टेति शक्तिः, त्रिसामा सामगः सामेति हवयम्, शङ्खभृत्रन्नकी चाक्रीति कीलकम्, शाङ्गधन्वा गदाधर इत्यस्वम्, रथाङ्गपाणिर- क्षोभ्य इति कवचम्, उद्भवः क्षोभणो देव इति परमो मन्त्रः, श्रीविष्णुप्रीत्यर्थे सहस्त्रनाम स्तोत्रपाठे विनियोगः। इति विनियोगः अब करन्यासः - ॐ उद्भवाय अङ्गुष्ठाभ्यां नमः। ॐ क्षोभणाय तर्जनीभ्यां नमः । ॐ देवाय मध्यमाभ्यां नमः। ॐ उद्भवाय अनामिकाभ्यां नमः। ॐ लोभणाय कनिष्ठिकाभ्यां नमः। ॐ देवाय श्री करतलकरपृष्ठाभ्यां नमः। इति करन्यासः। अथ हृदयादिषडङ्गन्यासः ॐ सुव्रतः सुमुखः सूक्ष्मः ज्ञानाय हृदयाय नमः। सहस्त्रमूर्द्धा विश्वात्मा ऐश्वर्याय शिरसे स्वाहा। सहस्वार्चिः सप्तजिह्नः शक्त्यै शिखायै वषट्। त्रिसामा सामगः साम बलाय कवचाय हुम्। रथाङ्ग-पाणिरक्षोभ्यः तेजसे नेत्राभ्यां वौषट्। शाङ्गधन्वा गदाधरः वीर्याय अस्त्राय फट्। इति हृदयादिन्यासः । दिग्बन्धः स्वरोम् । इति दिग्बन्धः। ऋतुः सुदर्शनः कालः भूर्भुवः ध्यानम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यान-गम्यं वन्दे विष्णुं भव-भयहरं सर्वलोकैक-नाथम् ।। सशङ्खचक्र सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्। सहार वक्षःस्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ अब श्रीविष्णुसहस्त्रनामस्तोत्रम् यम्य प्माणमात्रेण जन्मममारवन्धनात्। विमुच्यते नमस्तस्मै विष्यावे प्रभविष्णावे ॥ नमः समस्तभूतानामाविभूताय भूभुते। अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ श्री वैशम्पायन उवाच - श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः। युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत।। श्री युधिष्ठिर उवाच किमेकं वैवतं लोके किं वाप्येक परायणम्। स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्।। को धर्मः सर्वधर्माणां भवतः परमो मतः। किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्।। भीष्म उवाच - जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्। स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः ।। तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्।

Shree Naaraayan Kavacham

श्री नारायण कवचम् ॐ श्री विष्णवे नमः नमो नारायणाय ॐ नमो भगवते वासुदेवाय आत्मानं परमं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ।।1।। ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचाप पाशान् दधानोऽष्टगुणोऽष्टबाहुः ।।2।। जलेषु मां रक्षतु मत्स्यमूर्ति र्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ।।३।। दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्व्यपतंश्च गर्भाः ॥4॥ रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥5॥ मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ॥6॥ सनत्कुमारोऽवतु कामदेवा द्धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मा निरयादशेषात् ।।7।। धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्ञ्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥8॥ द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात् । कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ।॥9॥ मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्न उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥10॥ देवोऽपराले मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥11॥ श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरी जनार्दनः । दामोदरोऽव्यावनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥12॥ चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम् । बंदग्धि बन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥13॥ गदे ऽशनिस्पर्शनविस्फुलिङ्ग निष्पिण्ढि निष्पिण्ढ्यिजितप्रियासि । कूष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चर्णय चूर्णयारीन् ॥14॥ त्वं यातुधान प्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥15॥ त्वं तिग्मधारासिवरारिसैन्य मीशप्रयुक्तो मम छिन्धि छिन्धि I चक्षूषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥16॥ यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ॥17॥ सर्वाण्येतानि भगवन्नाम रूपास्त्रकीर्तनात् । प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः ॥18॥ गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥19॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥20॥ यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥21॥ यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥22॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥23॥ विदिक्षु दिक्षुर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः । प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥24॥